ऋषिः - अथर्वा

देवता - इन्द्रः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - वाणिज्य

PreviousNext
स्वर सहित मन्त्र

इन्द्र॑म॒हं व॒णिजं॑ चोदयामि॒ स न॒ ऐतु॑ पुरए॒ता नो॑ अस्तु। नु॒दन्नरा॑तिं परिप॒न्थिनं॑ मृ॒गं स ईशा॑नो धन॒दा अ॑स्तु॒ मह्य॑म् ॥

स्वर सहित पद पाठ

इन्द्र॑म् । अ॒हम् । व॒णिज॑म् । चो॒द॒या॒मि॒ । सः । न॒ः । आ । ए॒तु॒ । पु॒र॒ःऽए॒ता । न॒ः । अ॒स्तु॒ । नु॒दन् । अरा॑तिम् । प॒रि॒ऽप॒न्थिन॑म् । मृ॒गम् । सः । ई॒शा॑नः । ध॒न॒ऽदाः । अ॒स्तु॒ । मह्य॑म् ॥१५.१॥


स्वर रहित मन्त्र

इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु। नुदन्नरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥


स्वर रहित पद पाठ

इन्द्रम् । अहम् । वणिजम् । चोदयामि । सः । नः । आ । एतु । पुरःऽएता । नः । अस्तु । नुदन् । अरातिम् । परिऽपन्थिनम् । मृगम् । सः । ईशानः । धनऽदाः । अस्तु । मह्यम् ॥१५.१॥