ऋषिः - भृगुः

देवता - वरुणः, सिन्धुः, आपः

छन्दः - अनुष्टुप्

स्वरः - आपो देवता सूक्त

PreviousNext
स्वर सहित मन्त्र

इ॒दं व॑ आपो॒ हृद॑यम॒यं व॒त्स ऋ॑तावरीः। इ॒हेत्थमेत॑ शक्वरी॒र्यत्रे॒दं वे॒शया॑मि वः ॥

स्वर सहित पद पाठ

इ॒दम् । व॒ः । आ॒प॒ः । हृद॑यम् । अ॒यम् । व॒त्सः । ऋ॒त॒ऽव॒री॒ः । इ॒ह । इ॒त्थम् । आ । इ॒त॒ । श॒क्व॒री॒ः । यत्र॑ । इ॒दम् । वे॒शया॑मि । व॒ः ॥१३.७॥


स्वर रहित मन्त्र

इदं व आपो हृदयमयं वत्स ऋतावरीः। इहेत्थमेत शक्वरीर्यत्रेदं वेशयामि वः ॥


स्वर रहित पद पाठ

इदम् । वः । आपः । हृदयम् । अयम् । वत्सः । ऋतऽवरीः । इह । इत्थम् । आ । इत । शक्वरीः । यत्र । इदम् । वेशयामि । वः ॥१३.७॥