ऋषिः - भृगुः

देवता - वरुणः, सिन्धुः, आपः

छन्दः - विराड्जगती

स्वरः - आपो देवता सूक्त

PreviousNext
स्वर सहित मन्त्र

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसन्न॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः। ती॒व्रो रसो॑ मधु॒पृचा॑मरंग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सा गमेत् ॥

स्वर सहित पद पाठ

आप॑ः । भ॒द्राः । घृ॒तम् । इत् । आप॑ः । आ॒स॒न् । अ॒ग्नीषोमौ॑ । बि॒भ्र॒ती॒ । आप॑ः । इत् । ताः । ती॒व्रः । रस॑ः । म॒धु॒ऽपृचा॑म् । अ॒र॒म्ऽग॒मः । आ । मा॒ । प्रा॒णेन॑ । स॒ह । वर्च॑सा । ग॒मे॒त् ॥१३.५॥


स्वर रहित मन्त्र

आपो भद्रा घृतमिदाप आसन्नग्नीषोमौ बिभ्रत्याप इत्ताः। तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत् ॥


स्वर रहित पद पाठ

आपः । भद्राः । घृतम् । इत् । आपः । आसन् । अग्नीषोमौ । बिभ्रती । आपः । इत् । ताः । तीव्रः । रसः । मधुऽपृचाम् । अरम्ऽगमः । आ । मा । प्राणेन । सह । वर्चसा । गमेत् ॥१३.५॥