ऋषिः - ब्रह्मा

देवता - शाला, वास्तोष्पतिः

छन्दः - आर्ष्यनुष्टुप्

स्वरः - शालनिर्माण सूक्त

PreviousNext
स्वर सहित मन्त्र

एमां कु॑मा॒रस्तरु॑ण॒ आ व॒त्सो जग॑ता स॒ह। एमां प॑रि॒स्रुतः॑ कु॒म्भ आ द॒ध्नः क॒लशै॑रगुः ॥

स्वर सहित पद पाठ

आ । इ॒माम् । कु॒मा॒रः । तरु॑णः । आ । व॒त्सः । जग॑ता । स॒ह । आ । इ॒माम् । प॒रि॒ऽस्रुत॑ः । कु॒म्भः । आ । द॒ध्नः । क॒लशै॑ः । अ॒गु॒ः ॥१२.७॥


स्वर रहित मन्त्र

एमां कुमारस्तरुण आ वत्सो जगता सह। एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः ॥


स्वर रहित पद पाठ

आ । इमाम् । कुमारः । तरुणः । आ । वत्सः । जगता । सह । आ । इमाम् । परिऽस्रुतः । कुम्भः । आ । दध्नः । कलशैः । अगुः ॥१२.७॥