ऋषिः - ब्रह्मा
देवता - शाला, वास्तोष्पतिः
छन्दः - शक्वरीगर्भा जगती
स्वरः - शालनिर्माण सूक्त
इ॒माम् । शाला॑म् । स॒वि॒ता । वा॒युः । इन्द्र॑ः । बृह॒स्पति॑ः । नि । मि॒नो॒तु॒ । प्र॒ऽजा॒नन् । उ॒क्षन्तु॑ । उ॒द्ना । म॒रुत॑ः । घृ॒तेन॑ । भग॑ः । न॒ः । राजा॑ । नि । कृ॒षिम् । त॒नो॒तु॒ ॥१२.४॥
इमाम् । शालाम् । सविता । वायुः । इन्द्रः । बृहस्पतिः । नि । मिनोतु । प्रऽजानन् । उक्षन्तु । उद्ना । मरुतः । घृतेन । भगः । नः । राजा । नि । कृषिम् । तनोतु ॥१२.४॥