ऋषिः - ब्रह्मा, भृग्वङ्गिराः

देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्

छन्दः - अनुष्टुप्

स्वरः - दीर्घायुप्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

प्र वि॑शतं प्राणापानावन॒ड्वाहा॑विव व्र॒जम्। व्य॒न्ये य॑न्तु मृ॒त्यवो॒ याना॒हुरित॑रान्छ॒तम् ॥

स्वर सहित पद पाठ

प्र । वि॒श॒त॒म् । प्रा॒णा॒पा॒नौ॒ । अ॒न॒ड्वाहौ॑ऽइव । व्र॒जम् । वि । अ॒न्ये । य॒न्तु॒ । मृ॒त्यव॑ः । यान् । आ॒हुः । इत॑रान् । श॒तम् ॥११.५॥


स्वर रहित मन्त्र

प्र विशतं प्राणापानावनड्वाहाविव व्रजम्। व्यन्ये यन्तु मृत्यवो यानाहुरितरान्छतम् ॥


स्वर रहित पद पाठ

प्र । विशतम् । प्राणापानौ । अनड्वाहौऽइव । व्रजम् । वि । अन्ये । यन्तु । मृत्यवः । यान् । आहुः । इतरान् । शतम् ॥११.५॥