ऋषिः - ब्रह्मा, भृग्वङ्गिराः

देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्

छन्दः - शक्वरीगर्भा जगती

स्वरः - दीर्घायुप्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान्। श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ॥

स्वर सहित पद पाठ

श॒तम् । जी॒व॒ । श॒रद॑ः । वर्ध॑मानः । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति॑ । व॒स॒न्तान् ।श॒तम् । ते॒ । इन्द्र॑ः । अ॒ग्निः । स॒वि॒ता । बृह॒स्पति॑ः । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ॥११.४॥


स्वर रहित मन्त्र

शतं जीव शरदो वर्धमानः शतं हेमन्तान्छतमु वसन्तान्। शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥


स्वर रहित पद पाठ

शतम् । जीव । शरदः । वर्धमानः । शतम् । हेमन्तान् । शतम् । ऊं इति । वसन्तान् ।शतम् । ते । इन्द्रः । अग्निः । सविता । बृहस्पतिः । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ॥११.४॥