atharvaveda/3/11/2
ऋषिः - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - त्रिष्टुप्
स्वरः - दीर्घायुप्राप्ति सूक्त
यदि॑ । क्षि॒तऽआ॑यु: । यदि॑ । वा॒ । परा॑ऽइत: । यदि॑ । मृ॒त्यो: । अ॒न्ति॒कम् । निऽइ॑त: । ए॒व । तम् । आ । ह॒रा॒मि॒ । नि:ऽऋ॑ते: । उ॒पस्था॑त् । अस्पा॑र्शम् । ए॒न॒म् । श॒तऽशा॑रदाय ॥११.२॥
यदि । क्षितऽआयु: । यदि । वा । पराऽइत: । यदि । मृत्यो: । अन्तिकम् । निऽइत: । एव । तम् । आ । हरामि । नि:ऽऋते: । उपस्थात् । अस्पार्शम् । एनम् । शतऽशारदाय ॥११.२॥