ऋषिः - अथर्वा
देवता - जातवेदाः, पशुसमूहः
छन्दः - अनुष्टुप्
स्वरः - रायस्पोषप्राप्ति सूक्त
इडा॑याः । प॒दम् । घृतऽव॑त् । स॒री॒सृ॒पम् । जात॑ऽवेदः । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ । ये । ग्रा॒म्याः । प॒शव॑ः । वि॒श्वऽरू॑पाः । तेषा॑म् । स॒प्ता॒नाम् । मयि॑ । रन्ति॑ः । अ॒स्तु॒ ॥१०.६॥
इडायाः । पदम् । घृतऽवत् । सरीसृपम् । जातऽवेदः । प्रति । हव्या । गृभाय । ये । ग्राम्याः । पशवः । विश्वऽरूपाः । तेषाम् । सप्तानाम् । मयि । रन्तिः । अस्तु ॥१०.६॥