ऋषिः - अथर्वा

देवता - एकाष्टका

छन्दः - अनुष्टुप्

स्वरः - रायस्पोषप्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

वा॑नस्प॒त्या ग्रावा॑णो॒ घोष॑मक्रत ह॒विष्कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म्। एका॑ष्टके सुप्र॒जसः॑ सु॒वीरा॑ व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

स्वर सहित पद पाठ

वा॒न॒स्प॒त्याः । ग्रावा॑णः । घोष॑म् । अ॒क्र॒त॒ । ह॒विः । कृ॒ण्वन्त॑ः । प॒रि॒ऽव॒त्स॒रीण॑म् । एक॑ऽअष्टके । सु॒ऽप्र॒जस॑ः । सु॒ऽवीरा॑ः । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥१०.५॥


स्वर रहित मन्त्र

वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम्। एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥


स्वर रहित पद पाठ

वानस्पत्याः । ग्रावाणः । घोषम् । अक्रत । हविः । कृण्वन्तः । परिऽवत्सरीणम् । एकऽअष्टके । सुऽप्रजसः । सुऽवीराः । वयम् । स्याम । पतयः । रयीणाम् ॥१०.५॥