ऋषिः - अथर्वा
देवता - धेनुः
छन्दः - अनुष्टुप्
स्वरः - रायस्पोषप्राप्ति सूक्त
प्र॒थ॒मा । ह॒ । वि । उ॒वा॒स॒ । सा । धे॒नुः । अ॒भ॒व॒त् । य॒मे । सा । न॒ः । पय॑स्वती । दु॒हा॒म् । उत्त॑राम्ऽउत्तराम् । समा॑म् ॥१०.१॥
प्रथमा । ह । वि । उवास । सा । धेनुः । अभवत् । यमे । सा । नः । पयस्वती । दुहाम् । उत्तराम्ऽउत्तराम् । समाम् ॥१०.१॥