ऋषिः - अथर्वा
देवता - मरुद्गणः
छन्दः - विराड्गर्भा भुरिक्त्रिष्टुप्
स्वरः - शत्रु सेनासंमोहन सूक्त
यू॒यम् । उ॒ग्राः । म॒रु॒त॒ः । ई॒दृशे॑ । स्थ॒ । अ॒भि । प्र । इ॒त॒ । मृ॒णत॑ । सह॑ध्वम् । अमी॑मृणन् । वस॑वः । ना॒थि॒ताः । इ॒मे । अ॒ग्निः । हि । ए॒षा॒म् । दू॒तः । प्र॒ति॒ऽएतु॑ । वि॒द्वान् ॥१.२॥
यूयम् । उग्राः । मरुतः । ईदृशे । स्थ । अभि । प्र । इत । मृणत । सहध्वम् । अमीमृणन् । वसवः । नाथिताः । इमे । अग्निः । हि । एषाम् । दूतः । प्रतिऽएतु । विद्वान् ॥१.२॥