atharvaveda/20/99/2

अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि। अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥

अ॒स्य । इत् । इन्द्र॑: । व॒वृ॒धे॒ । वृष्ण्य॑म् । शव॑: । मदे॑ । सु॒तस्य॑ । विष्ण॑वि ॥ अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यव॑: । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥९९.२॥

ऋषिः - मेध्यातिथिः

देवता - इन्द्रः

छन्दः - प्रगाथः

स्वरः - सूक्त-९९

स्वर सहित मन्त्र

अ॒स्येदिन्द्रो॑ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे॑ सु॒तस्य॒ विष्ण॑वि। अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ॥

स्वर सहित पद पाठ

अ॒स्य । इत् । इन्द्र॑: । व॒वृ॒धे॒ । वृष्ण्य॑म् । शव॑: । मदे॑ । सु॒तस्य॑ । विष्ण॑वि ॥ अ॒द्य । तम् । अ॒स्य॒ । म॒हि॒मान॑म् । आ॒यव॑: । अनु॑ । स्तु॒व॒न्ति॒ । पू॒र्वऽथा॑ ॥९९.२॥


स्वर रहित मन्त्र

अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि। अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥


स्वर रहित पद पाठ

अस्य । इत् । इन्द्र: । ववृधे । वृष्ण्यम् । शव: । मदे । सुतस्य । विष्णवि ॥ अद्य । तम् । अस्य । महिमानम् । आयव: । अनु । स्तुवन्ति । पूर्वऽथा ॥९९.२॥