ऋषिः - शंयुः

देवता - इन्द्रः

छन्दः - प्रगाथः

स्वरः - सूक्त-९८

PreviousNext
स्वर सहित मन्त्र

त्वामिद्धि हवा॑महे सा॒ता वाज॑स्य का॒रवः॑। त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॑स्त्वां॒ काष्ठा॒स्वर्व॑तः ॥

स्वर सहित पद पाठ

त्वाम् । इत् । हि । हवा॑महे । सा॒ता । वाज॑स्य । का॒रव॑ः ॥ त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । नर॑ः । त्वाम् । काष्ठासु । अर्व॑तः ॥९८.१॥


स्वर रहित मन्त्र

त्वामिद्धि हवामहे साता वाजस्य कारवः। त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥


स्वर रहित पद पाठ

त्वाम् । इत् । हि । हवामहे । साता । वाजस्य । कारवः ॥ त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । नरः । त्वाम् । काष्ठासु । अर्वतः ॥९८.१॥