atharvaveda/20/96/1

ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च। इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तासः॑ ॥

ती॒व्रस्य॑ । ‍अ॒भिऽव॑यस: । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒ह । मु॒ञ्च॒ ॥ इन्द्र॑ । मा । त्वा॒ । यज॑मानास: । अ॒न्ये । नि । रि॒र॒म॒न्‌ । तुभ्य॑म् । इ॒मे । सु॒तास॑: ॥९६.१॥

ऋषिः - पूरणः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-९६

स्वर सहित मन्त्र

ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च। इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तासः॑ ॥

स्वर सहित पद पाठ

ती॒व्रस्य॑ । ‍अ॒भिऽव॑यस: । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒ह । मु॒ञ्च॒ ॥ इन्द्र॑ । मा । त्वा॒ । यज॑मानास: । अ॒न्ये । नि । रि॒र॒म॒न्‌ । तुभ्य॑म् । इ॒मे । सु॒तास॑: ॥९६.१॥


स्वर रहित मन्त्र

तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च। इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतासः ॥


स्वर रहित पद पाठ

तीव्रस्य । ‍अभिऽवयस: । अस्य । पाहि । सर्वऽरथा । वि । हरी इति । इह । मुञ्च ॥ इन्द्र । मा । त्वा । यजमानास: । अन्ये । नि । रिरमन्‌ । तुभ्यम् । इमे । सुतास: ॥९६.१॥