ऋषिः - गृत्समदः
देवता - इन्द्रः
छन्दः - अष्टिः
स्वरः - सूक्त-९५
त्रिऽक॑द्रुकेषु । म॒हि॒षः । यव॑ऽआशिरम् । तु॒वि॒ऽशुष्म॑ः । तृ॒षत् । सोम॑म् । अ॒पि॒ब॒त् । विष्णु॑ना । सु॒तम् । यथा॑ । अव॑शत् ॥ सः । ई॒म् । म॒मा॒द॒ । महि॑ । कर्म॑ । कर्त॑वे । म॒हाम् । उ॒रुम् । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दु॑ः ॥९५.१॥
त्रिऽकद्रुकेषु । महिषः । यवऽआशिरम् । तुविऽशुष्मः । तृषत् । सोमम् । अपिबत् । विष्णुना । सुतम् । यथा । अवशत् ॥ सः । ईम् । ममाद । महि । कर्म । कर्तवे । महाम् । उरुम् । सः । एनम् । सश्चत् । देवः । देवम् । सत्यम् । इन्द्रम् । सत्यः । इन्दुः ॥९५.१॥