ऋषिः - कृष्णः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-९४

PreviousNext
स्वर सहित मन्त्र

बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः। इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥

स्वर सहित पद पाठ

बृह॒स्पति॑ः । न॒ः । परि॑ । पा॒तु॒ । प॒श्चात् । उ॒त । उत्ऽत॑रस्मात् । अध॑रात् । अ॒घ॒ऽयोः ॥ इन्द्र॑ः । पु॒रस्ता॑त् । उ॒त । म॒ध्य॒तः । न॒ः । सखा॑ । सख‍ि॑ऽभ्यः । वरि॑वः । कृ॒णो॒तु॒ ॥९४.११॥


स्वर रहित मन्त्र

बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः। इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥


स्वर रहित पद पाठ

बृहस्पतिः । नः । परि । पातु । पश्चात् । उत । उत्ऽतरस्मात् । अधरात् । अघऽयोः ॥ इन्द्रः । पुरस्तात् । उत । मध्यतः । नः । सखा । सख‍िऽभ्यः । वरिवः । कृणोतु ॥९४.११॥