ऋषिः - पुरुहन्मा

देवता - इन्द्रः

छन्दः - प्रगाथः

स्वरः - सूक्त-९२

PreviousNext
स्वर सहित मन्त्र

अषा॑ढमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रयः॑। सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्यावः॒ क्षामो॑ अनोनवुः ॥

स्वर सहित पद पाठ

अषा॑ल्हम् । उ॒ग्रम् । पृत॑नासु । स॒स॒हिम् । यस्मि॑न् । म॒हीः । उ॒रु॒ऽज्रय॑ः ॥ सम् । धे॒नव॑ः । जाय॑माने । अ॒नो॒न॒वु॒ः । द्याव॑ः । क्षाम॑ः । अ॒नो॒न॒वु॒ः ॥९२.१९॥


स्वर रहित मन्त्र

अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः। सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥


स्वर रहित पद पाठ

अषाल्हम् । उग्रम् । पृतनासु । ससहिम् । यस्मिन् । महीः । उरुऽज्रयः ॥ सम् । धेनवः । जायमाने । अनोनवुः । द्यावः । क्षामः । अनोनवुः ॥९२.१९॥