ऋषिः - अयास्यः

देवता - बृहस्पतिः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-९१

PreviousNext
स्वर सहित मन्त्र

अ॒वो द्वाभ्यां॑ प॒र एक॑या॒ गा गुहा॒ तिष्ठ॑न्ती॒रनृ॑तस्य॒ सेतौ॑। बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ॥

स्वर सहित पद पाठ

अ॒वः । द्वाभ्या॑म् । प॒रः । एक॑या । गाः । गुहा॑ । तिष्ठ॑न्तीः । अनृ॑तस्य । सेतौ॑ । बृह॒स्पति॑ः । तम॑सि । ज्योति॑ः । इ॒च्छन् । उत् । उ॒स्राः । आ । अ॒क॒ः । वि । हि । ति॒स्रः । आव॒रित्याथ॑ः ॥९१.४॥


स्वर रहित मन्त्र

अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ। बृहस्पतिस्तमसि ज्योतिरिच्छन्नुदुस्रा आकर्वि हि तिस्र आवः ॥


स्वर रहित पद पाठ

अवः । द्वाभ्याम् । परः । एकया । गाः । गुहा । तिष्ठन्तीः । अनृतस्य । सेतौ । बृहस्पतिः । तमसि । ज्योतिः । इच्छन् । उत् । उस्राः । आ । अकः । वि । हि । तिस्रः । आवरित्याथः ॥९१.४॥