atharvaveda/20/91/2

ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः। विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥

ऋ॒तम् । शंस॑न्त: । ऋ॒जु । दीध्या॑ना: । दि॒व: । पु॒त्रास॑: । असु॑रस्य । वी॒रा: ॥ विप्र॑म् । पद॑म् । अङ्गि॑रस: । दधा॑ना: । य॒ज्ञस्य॑ । धाम॑ । प्रथ॒मम् । म॒न॒न्त॒ ॥९१.२॥

ऋषिः - अयास्यः

देवता - बृहस्पतिः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-९१

स्वर सहित मन्त्र

ऋ॒तं शंस॑न्त ऋ॒जु दीध्या॑ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः। विप्रं॑ प॒दमङ्गि॑रसो॒ दधा॑ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ॥

स्वर सहित पद पाठ

ऋ॒तम् । शंस॑न्त: । ऋ॒जु । दीध्या॑ना: । दि॒व: । पु॒त्रास॑: । असु॑रस्य । वी॒रा: ॥ विप्र॑म् । पद॑म् । अङ्गि॑रस: । दधा॑ना: । य॒ज्ञस्य॑ । धाम॑ । प्रथ॒मम् । म॒न॒न्त॒ ॥९१.२॥


स्वर रहित मन्त्र

ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः। विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥


स्वर रहित पद पाठ

ऋतम् । शंसन्त: । ऋजु । दीध्याना: । दिव: । पुत्रास: । असुरस्य । वीरा: ॥ विप्रम् । पदम् । अङ्गिरस: । दधाना: । यज्ञस्य । धाम । प्रथमम् । मनन्त ॥९१.२॥