ऋषिः - वामदेवः

देवता - बृहस्पतिः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-८८

PreviousNext
स्वर सहित मन्त्र

बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्योमन्। स॒प्तास्य॑स्तुविजा॒तो रवे॑ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां॑सि ॥

स्वर सहित पद पाठ

बृह॒स्पति॑ः । प्र॒थ॒मम् । जाय॑मानः । म॒हः । ज्योति॑षः । प॒र॒मे । विऽओ॑मन् ॥ स॒प्तऽआ॑स्यः । तु॒वि॒ऽजा॒तः । रवे॑ण । वि । स॒प्तऽर॑श्मिः । अ॒ध॒म॒त् । तमां॑सि ॥८८.४॥


स्वर रहित मन्त्र

बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन्। सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥


स्वर रहित पद पाठ

बृहस्पतिः । प्रथमम् । जायमानः । महः । ज्योतिषः । परमे । विऽओमन् ॥ सप्तऽआस्यः । तुविऽजातः । रवेण । वि । सप्तऽरश्मिः । अधमत् । तमांसि ॥८८.४॥