ऋषिः - वामदेवः

देवता - बृहस्पतिः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-८८

PreviousNext
स्वर सहित मन्त्र

बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ ते॑ ऋत॒स्पृशो॒ नि षे॑दुः। तुभ्यं॑ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्व॑ श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥

स्वर सहित पद पाठ

बृह॑स्पते । या । प॒र॒मा । प॒रा॒ऽवत् । अत॑ः । आ । ते॒ । ऋ॒त॒ऽस्पृश॑ः । नि । से॒दु॒ः ॥ तुभ्य॑म् । खा॒ताः । अ॒व॒ताः । अद्रि॑ऽदुग्धाः । मध्व॑ः । श्चो॒त॒न्ति॒ । अ॒भित॑ः । वि॒ऽर॒प्शम् ॥८८.३॥


स्वर रहित मन्त्र

बृहस्पते या परमा परावदत आ ते ऋतस्पृशो नि षेदुः। तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम् ॥


स्वर रहित पद पाठ

बृहस्पते । या । परमा । पराऽवत् । अतः । आ । ते । ऋतऽस्पृशः । नि । सेदुः ॥ तुभ्यम् । खाताः । अवताः । अद्रिऽदुग्धाः । मध्वः । श्चोतन्ति । अभितः । विऽरप्शम् ॥८८.३॥