ऋषिः - वसिष्ठः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-८७

PreviousNext
स्वर सहित मन्त्र

यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्साक्षा॑म॒ तान्बा॒हुभिः॒ शाश॑दानान्। यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥

स्वर सहित पद पाठ

यत् । यो॒धया॑ः । म॒ह॒तः । मन्य॑मानान् । साक्षा॑म । तान् । बा॒हुभि॑ः । शाश॑दानान् ॥ यत् । वा॒ । नृऽभि॑ । वृत॑ः । इ॒न्द्र॒ । अ॒भि॒ऽयुध्या॑ः । तम् । त्वया॑ । आ॒जिम‌् । सौ॒श्र॒व॒सम् । ज॒ये॒म॒ ॥८७.४॥


स्वर रहित मन्त्र

यद्योधया महतो मन्यमानान्साक्षाम तान्बाहुभिः शाशदानान्। यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥


स्वर रहित पद पाठ

यत् । योधयाः । महतः । मन्यमानान् । साक्षाम । तान् । बाहुभिः । शाशदानान् ॥ यत् । वा । नृऽभि । वृतः । इन्द्र । अभिऽयुध्याः । तम् । त्वया । आजिम‌् । सौश्रवसम् । जयेम ॥८७.४॥