ऋषिः - शक्तिरथवा वसिष्ठः

देवता - इन्द्रः

छन्दः - प्रगाथः

स्वरः - सूक्त-७९

PreviousNext
स्वर सहित मन्त्र

मा नो॒ अज्ञा॑ता वृ॒जना॑ दुरा॒ध्यो॒ माशि॑वासो॒ अव॑ क्रमुः। त्वया॑ व॒यं प्र॒वतः॒ शश्व॑तीर॒पोऽति॑ शूर तरामसि ॥

स्वर सहित पद पाठ

मा । न॒ः । अज्ञा॑ताः । वृ॒जना॑ः । दु॒ःऽआ॒ध्य॑ः । मा । आशि॑वासः । अव॑ । क्र॒मु॒ः । त्वया॑ । व॒यम् । प्र॒ऽवत॑ः । शश्व॑तीः । अ॒पः । अति॑ । शू॒र॒ । त॒रा॒म॒सि॒ ॥७९.२॥


स्वर रहित मन्त्र

मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः। त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥


स्वर रहित पद पाठ

मा । नः । अज्ञाताः । वृजनाः । दुःऽआध्यः । मा । आशिवासः । अव । क्रमुः । त्वया । वयम् । प्रऽवतः । शश्वतीः । अपः । अति । शूर । तरामसि ॥७९.२॥