ऋषिः - शक्तिरथवा वसिष्ठः

देवता - इन्द्रः

छन्दः - प्रगाथः

स्वरः - सूक्त-७९

PreviousNext
स्वर सहित मन्त्र

इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑। शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ॥

स्वर सहित पद पाठ

इन्द्र॑ । क्रतु॑म् । न॒ः । आ । भ॒र॒ । पि॒ता । पु॒त्रेभ्य॑ः । यथा॑ ॥ शिक्ष॑ । न॒ः । अ॒स्मिन् । पु॒रु॒ऽहू॒त॒ । याम॑नि । जी॒वाः । ज्योति॑ः । अ॒शी॒म॒ह‍ि॒ ॥७९.१॥


स्वर रहित मन्त्र

इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा। शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥


स्वर रहित पद पाठ

इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । यथा ॥ शिक्ष । नः । अस्मिन् । पुरुऽहूत । यामनि । जीवाः । ज्योतिः । अशीमह‍ि ॥७९.१॥