ऋषिः - वामदेवः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-७७

PreviousNext
स्वर सहित मन्त्र

व॑व॒क्ष इन्द्रो॒ अमि॑तमृजि॒ष्युभे आ प॑प्रौ॒ रोद॑सी महि॒त्वा। अत॑श्चिदस्य महि॒मा वि रे॑च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ॥

स्वर सहित पद पाठ

व॒व॒क्षे । इन्द्र॑ः । अमि॑तम् । ऋ॒जी॒षी । उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ॥ अत॑ः । चि॒त् । अ॒स्य॒ । म॒हि॒मा । वि । रे॒चि॒ः। अ॒भि । यः । विश्वा॑ । भुव॑ना । बभूव॑ ॥७७.५॥


स्वर रहित मन्त्र

ववक्ष इन्द्रो अमितमृजिष्युभे आ पप्रौ रोदसी महित्वा। अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥


स्वर रहित पद पाठ

ववक्षे । इन्द्रः । अमितम् । ऋजीषी । उभे इति । आ । पप्रौ । रोदसी इति । महिऽत्वा ॥ अतः । चित् । अस्य । महिमा । वि । रेचिः। अभि । यः । विश्वा । भुवना । बभूव ॥७७.५॥