ऋषिः - शुनःशेपः

देवता - इन्द्रः

छन्दः - पङ्क्तिः

स्वरः - सूक्त-७४

PreviousNext
स्वर सहित मन्त्र

स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तयः॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥

स्वर सहित पद पाठ

स॒सन्तु॑ । त्याः । अरा॑तयः । बोध॑न्तु । शू॒र॒ । रा॒तय॑ः । आ । तु । न॒ः । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.४॥


स्वर रहित मन्त्र

ससन्तु त्या अरातयो बोधन्तु शूर रातयः। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥


स्वर रहित पद पाठ

ससन्तु । त्याः । अरातयः । बोधन्तु । शूर । रातयः । आ । तु । नः । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.४॥