ऋषिः - वसुक्रः

देवता - इन्द्रः

छन्दः - अभिसारिणी

स्वरः - सूक्त-७३

PreviousNext
स्वर सहित मन्त्र

यो वा॒चा विवा॑चो मृ॒ध्रवा॑चः पु॒रू स॒हस्राशि॑वा ज॒घान॑। तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ॥

स्वर सहित पद पाठ

यः । वा॒चा । विऽवा॑चः । मृ॒ध्रऽवा॑चः । पु॒रू । स॒हस्रा॑ । अशि॑वा । ज॒घान॑ ॥ तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । पि॒ताऽइ॑व । यः । तवि॑षीम् । व॒वृ॒धे । शव॑ः ॥७३.६॥


स्वर रहित मन्त्र

यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान। तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥


स्वर रहित पद पाठ

यः । वाचा । विऽवाचः । मृध्रऽवाचः । पुरू । सहस्रा । अशिवा । जघान ॥ तत्ऽतत् । इत् । अस्य । पौंस्यम् । गृणीमसि । पिताऽइव । यः । तविषीम् । ववृधे । शवः ॥७३.६॥