ऋषिः - परुच्छेपः
देवता - इन्द्रः
छन्दः - अत्यष्टिः
स्वरः - सूक्त-७२
विश्वे॑षु । हि । त्वा॒ । सव॑नेषु । तु॒ञ्जते॑ । स॒मा॒नम् । एक॑म् । वृष॑ऽमन्यवः । पृथ॑क् । स्व॑१॒रिति॑ स्व॑ः । स॒नि॒ष्यव॑ः । पृथ॑क् ॥ तम् । त्वा॒ । नाव॑म् । न । प॒र्वणि॑म् । शू॒षस्य॑ । धु॒रि । धी॒म॒हि॒ ॥ इन्द्र॑म् । न । य॒ज्ञैः । चि॒तय॑न्तः । आ॒यव॑ः । स्तोमे॑भिः । इन्द्र॑म् । आ॒यव॑ः ॥७२.१॥
विश्वेषु । हि । त्वा । सवनेषु । तुञ्जते । समानम् । एकम् । वृषऽमन्यवः । पृथक् । स्व१रिति स्वः । सनिष्यवः । पृथक् ॥ तम् । त्वा । नावम् । न । पर्वणिम् । शूषस्य । धुरि । धीमहि ॥ इन्द्रम् । न । यज्ञैः । चितयन्तः । आयवः । स्तोमेभिः । इन्द्रम् । आयवः ॥७२.१॥