atharvaveda/20/67/7

यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते। अ॑ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥

यम् । ऊं॒ इति॑ । पूर्व॑म् । अहु॑वे । तम । इ॒दम् । हु॒वे॒ । स: । इत् । ऊं॒ इति॑ । हव्य॑: । द॒दि: । य: । नाम॑ । पत्य॑ते ॥ अ॒ध्व॒र्युभि॑: । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पो॒त्रात् । सोम॑म् । द्र॒वि॒ण॒:ऽद॒: । पिब॑ । ऋ॒तुऽभि॑: ॥६७.७॥

ऋषिः - गृत्समदः

देवता - द्रविणोदाः

छन्दः - जगती

स्वरः - सूक्त-६७

स्वर सहित मन्त्र

यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते। अ॑ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥

स्वर सहित पद पाठ

यम् । ऊं॒ इति॑ । पूर्व॑म् । अहु॑वे । तम । इ॒दम् । हु॒वे॒ । स: । इत् । ऊं॒ इति॑ । हव्य॑: । द॒दि: । य: । नाम॑ । पत्य॑ते ॥ अ॒ध्व॒र्युभि॑: । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पो॒त्रात् । सोम॑म् । द्र॒वि॒ण॒:ऽद॒: । पिब॑ । ऋ॒तुऽभि॑: ॥६७.७॥


स्वर रहित मन्त्र

यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते। अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥


स्वर रहित पद पाठ

यम् । ऊं इति । पूर्वम् । अहुवे । तम । इदम् । हुवे । स: । इत् । ऊं इति । हव्य: । ददि: । य: । नाम । पत्यते ॥ अध्वर्युभि: । प्रऽस्थितम् । सोम्यम् । मधु । पोत्रात् । सोमम् । द्रविण:ऽद: । पिब । ऋतुऽभि: ॥६७.७॥