ऋषिः - गृत्समदः

देवता - इन्द्रः

छन्दः - जगती

स्वरः - सूक्त-६७

PreviousNext
स्वर सहित मन्त्र

ए॒ष स्य ते॑ त॒न्वो नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः। तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥

स्वर सहित पद पाठ

ए॒षः । स्य । ते॒ । त॒न्व॑ः । नृ॒म्ण॒ऽवर्ध॑नः । सह॑ः। ओज॑ः । प्र॒दिवि॑ । बा॒ह्वोः । हि॒तः ॥ तुभ्य॑म् । सु॒तः । म॒घ॒ऽव॒न् । तुभ्य॑म् । आऽभृ॑तः । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥६७.६॥


स्वर रहित मन्त्र

एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः। तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥


स्वर रहित पद पाठ

एषः । स्य । ते । तन्वः । नृम्णऽवर्धनः । सहः। ओजः । प्रदिवि । बाह्वोः । हितः ॥ तुभ्यम् । सुतः । मघऽवन् । तुभ्यम् । आऽभृतः । त्वम् । अस्य । ब्राह्मणात् । आ । तृपत् । पिब ॥६७.६॥