atharvaveda/20/67/6

ए॒ष स्य ते॑ त॒न्वो नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः। तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥

ए॒ष: । स्य । ते॒ । त॒न्व॑: । नृ॒म्ण॒ऽवर्ध॑न: । सह॑:। ओज॑: । प्र॒दिवि॑ । बा॒ह्वो: । हि॒त: ॥ तुभ्य॑म् । सु॒त: । म॒घ॒ऽव॒न् । तुभ्य॑म् । आऽभृ॑त: । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥६७.६॥

ऋषिः - गृत्समदः

देवता - इन्द्रः

छन्दः - जगती

स्वरः - सूक्त-६७

स्वर सहित मन्त्र

ए॒ष स्य ते॑ त॒न्वो नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः। तुभ्यं॑ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥

स्वर सहित पद पाठ

ए॒ष: । स्य । ते॒ । त॒न्व॑: । नृ॒म्ण॒ऽवर्ध॑न: । सह॑:। ओज॑: । प्र॒दिवि॑ । बा॒ह्वो: । हि॒त: ॥ तुभ्य॑म् । सु॒त: । म॒घ॒ऽव॒न् । तुभ्य॑म् । आऽभृ॑त: । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥६७.६॥


स्वर रहित मन्त्र

एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः। तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥


स्वर रहित पद पाठ

एष: । स्य । ते । तन्व: । नृम्णऽवर्धन: । सह:। ओज: । प्रदिवि । बाह्वो: । हित: ॥ तुभ्यम् । सुत: । मघऽवन् । तुभ्यम् । आऽभृत: । त्वम् । अस्य । ब्राह्मणात् । आ । तृपत् । पिब ॥६७.६॥