ऋषिः - परुच्छेपः
देवता - अग्निः
छन्दः - अत्यष्टिः
स्वरः - सूक्त-६७
अ॒ग्निम् । होता॑रम् । म॒न्ये॒ । दास्व॑न्तम् । वसु॑म् । सू॒नुम् । सह॑सः । जा॒तऽवे॑दसम् । विप्र॑म् । न । जा॒तऽवे॑दसम् ॥ यः । ऊ॒र्ध्वया॑ । सु॒ऽअ॒ध्व॒रः । दे॒वः । दे॒वाच्या॑ । कृ॒पा ॥ घृतस्य॑ । विऽभ्रा॑ष्टिम् । अनु॑ । व॒ष्टि॒ । शो॒चिषा॑ । आ॒जुह्वा॑नस्य । स॒र्पिषः ॥६७.३॥
अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसुम् । सूनुम् । सहसः । जातऽवेदसम् । विप्रम् । न । जातऽवेदसम् ॥ यः । ऊर्ध्वया । सुऽअध्वरः । देवः । देवाच्या । कृपा ॥ घृतस्य । विऽभ्राष्टिम् । अनु । वष्टि । शोचिषा । आजुह्वानस्य । सर्पिषः ॥६७.३॥