atharvaveda/20/62/7

वि॒भ्राजं॒ ज्योति॑षा॒ स्वरग॑च्छो रोच॒नं दि॒वः। दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥

वि॒ऽभ्राज॑न् । ज्योति॑षा । स्व॑: । अग॑च्छ । रो॒च॒नम् । दि॒व: ॥ दे॒वा: । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ ॥६२.७॥

ऋषिः - नृमेधः

देवता - इन्द्रः

छन्दः - उष्णिक्

स्वरः - सूक्त-६२

स्वर सहित मन्त्र

वि॒भ्राजं॒ ज्योति॑षा॒ स्वरग॑च्छो रोच॒नं दि॒वः। दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥

स्वर सहित पद पाठ

वि॒ऽभ्राज॑न् । ज्योति॑षा । स्व॑: । अग॑च्छ । रो॒च॒नम् । दि॒व: ॥ दे॒वा: । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ ॥६२.७॥


स्वर रहित मन्त्र

विभ्राजं ज्योतिषा स्वरगच्छो रोचनं दिवः। देवास्त इन्द्र सख्याय येमिरे ॥


स्वर रहित पद पाठ

विऽभ्राजन् । ज्योतिषा । स्व: । अगच्छ । रोचनम् । दिव: ॥ देवा: । ते । इन्द्र । सख्याय । येमिरे ॥६२.७॥