ऋषिः - नृमेधः

देवता - इन्द्रः

छन्दः - उष्णिक्

स्वरः - सूक्त-६२

PreviousNext
स्वर सहित मन्त्र

त्वमि॑न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः। वि॒श्वक॑र्मा वि॒श्वदे॑वो म॒हाँ अ॑सि ॥

स्वर सहित पद पाठ

त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभूः । अ॒सि॒ । त्वम् । सूर्य॑म् । अ॒रो॒च॒य॒ः ॥ वि॒श्वऽक॑र्मा । वि॒श्वऽदे॑वः । म॒हान् । अ॒सि॒ ॥६२.६॥


स्वर रहित मन्त्र

त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः। विश्वकर्मा विश्वदेवो महाँ असि ॥


स्वर रहित पद पाठ

त्वम् । इन्द्र । अभिऽभूः । असि । त्वम् । सूर्यम् । अरोचयः ॥ विश्वऽकर्मा । विश्वऽदेवः । महान् । असि ॥६२.६॥