ऋषिः - विश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - सूक्त-६
इन्द्र॑ । त्वा॒ । वृ॒ष॒भम् । व॒यम् । सु॒ते । सोमे॑ । ह॒वा॒म॒हे॒ । सः । पा॒हि॒ । मध्व॑ः । अन्ध॑सः ॥६.१॥
इन्द्र । त्वा । वृषभम् । वयम् । सुते । सोमे । हवामहे । सः । पाहि । मध्वः । अन्धसः ॥६.१॥