ऋषिः - मेध्यातिथिः

देवता - इन्द्रः

छन्दः - प्रगाथः

स्वरः - सूक्त-५९

PreviousNext
स्वर सहित मन्त्र

उदु॒ त्ये मधु॑ मत्त॒मा गिर॒ स्तोमा॑स ईरते। स॑त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥

स्वर सहित पद पाठ

उत् । ऊं॒ इति॑ । त्ये । मधु॑मत्ऽतमाः । गिर॑ः । स्तोमा॑सः । ई॒र॒ते॒ ॥ स॒त्रा॒ऽजित॑ः । ध॒न॒साः । अक्षि॑तऽऊतयः । वा॒ज॒ऽयन्त॑ः । रथा॑ःऽइव ॥५९.१॥


स्वर रहित मन्त्र

उदु त्ये मधु मत्तमा गिर स्तोमास ईरते। सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥


स्वर रहित पद पाठ

उत् । ऊं इति । त्ये । मधुमत्ऽतमाः । गिरः । स्तोमासः । ईरते ॥ सत्राऽजितः । धनसाः । अक्षितऽऊतयः । वाजऽयन्तः । रथाःऽइव ॥५९.१॥