ऋषिः - मेध्यातिथिः

देवता - इन्द्रः

छन्दः - बृहती

स्वरः - सूक्त-५७

PreviousNext
स्वर सहित मन्त्र

क ईं॑ वेद सु॒ते सचा॒ पिब॑न्तं॒ कद्वयो॑ दधे। अ॒यं यः पुरो॑ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ॥

स्वर सहित पद पाठ

कः । ई॒म् । वे॒द॒ । सु॒ते । सचा॑ । पिब॑न्तम् । कत् । वय॑ः । द॒धे॒ ॥ अ॒यम् । यः । पुर॑ः । वि॒ऽभि॒नत्ति॑ । ओज॑सा । म॒न्दा॒नः । शि॒प्री । अन्ध॑सः ॥५७.११॥


स्वर रहित मन्त्र

क ईं वेद सुते सचा पिबन्तं कद्वयो दधे। अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥


स्वर रहित पद पाठ

कः । ईम् । वेद । सुते । सचा । पिबन्तम् । कत् । वयः । दधे ॥ अयम् । यः । पुरः । विऽभिनत्ति । ओजसा । मन्दानः । शिप्री । अन्धसः ॥५७.११॥