ऋषिः - मेध्यातिथिः

देवता - इन्द्रः

छन्दः - बृहती

स्वरः - सूक्त-५३

PreviousNext
स्वर सहित मन्त्र

य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा॑य॒ संस्कृ॑तः। यदि॑ स्तो॒तुर्म॒घवा॑ शृ॒णव॒द्धवं॒ नेन्द्रो॑ योष॒त्या ग॑मत् ॥

स्वर सहित पद पाठ

यः । उ॒ग्रः । सन् । अनि॑ःऽस्तृतः । स्थि॒रः । रणा॑य । संस्कृ॑तः ॥ यदि॑ । स्तो॒तुः । म॒घऽवा॑ । शृ॒ण्व॑त् । हव॑म् । न । इन्द्र॑ः । यो॒ष॒ति॒ । आ । ग॒म॒त् ॥५३.३॥


स्वर रहित मन्त्र

य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः। यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥


स्वर रहित पद पाठ

यः । उग्रः । सन् । अनिःऽस्तृतः । स्थिरः । रणाय । संस्कृतः ॥ यदि । स्तोतुः । मघऽवा । शृण्वत् । हवम् । न । इन्द्रः । योषति । आ । गमत् ॥५३.३॥