ऋषिः - प्रस्कण्वः

देवता - इन्द्रः

छन्दः - प्रगाथः

स्वरः - सूक्त-५१

PreviousNext
स्वर सहित मन्त्र

अ॒भि प्र वः॑ सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा॑ वि॒दे। यो ज॑रि॒तृभ्यो॑ म॒घवा॑ पुरू॒वसुः॑ स॒हस्रे॑णेव शिक्षति ॥

स्वर सहित पद पाठ

अ॒भि । प्र । व॒ः । सु॒ऽराध॑सम् । इन्द्र॑म् । अ॒र्च॒ । यथा॑ । वि॒दे ॥ यः । ज॒रि॒तृभ्य॑ः । म॒घऽवा॑ । पु॒रु॒ऽवसु॑ः । स॒हस्रे॑णऽइव । शिक्ष॑ति ॥५१.१॥


स्वर रहित मन्त्र

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे। यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥


स्वर रहित पद पाठ

अभि । प्र । वः । सुऽराधसम् । इन्द्रम् । अर्च । यथा । विदे ॥ यः । जरितृभ्यः । मघऽवा । पुरुऽवसुः । सहस्रेणऽइव । शिक्षति ॥५१.१॥