atharvaveda/20/49/5
ऋषिः - नोधाः
देवता - इन्द्रः
छन्दः - प्रगाथः
स्वरः - सूक्त-४९
द्यु॒क्षम् । सु॒ऽदानु॑म् । तावि॑षीभि: । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् ॥ क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु॒ । गोऽम॑न्तम् । ई॒म॒हे॒ ॥४९.५॥
द्युक्षम् । सुऽदानुम् । ताविषीभि: । आऽवृतम् । गिरिम् । न । पुरुऽभोजसम् ॥ क्षुऽमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गोऽमन्तम् । ईमहे ॥४९.५॥