ऋषिः - भरद्वाजः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-३६

PreviousNext
स्वर सहित मन्त्र

अ॒या ह॒ त्यं मा॒यया॑ वावृधा॒नं म॑नो॒जुवा॑ स्वतवः॒ पर्व॑तेन। अच्यु॑ता चिद्वीडि॒ता स्वो॑जो रु॒जो वि दृ॒ढा धृ॑ष॒ता वि॑रप्शिन् ॥

स्वर सहित पद पाठ

अ॒या । ह॒ । त्यम् । मा॒यया॑ । व॒वृ॒धा॒नम् । म॒न॒ःऽजुवा॑ । स्व॒ऽत॒व॒ः । पर्व॑तेन ॥ अच्यु॑ता । चि॒त् । वी॒लि॒ता । सु॒ऽओ॒ज॒ः । रु॒जः । वि । दृ॒ह्ला । धृ॒ष॒ता । वि॒र॒प्शि॒न् ॥३६.६॥


स्वर रहित मन्त्र

अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन। अच्युता चिद्वीडिता स्वोजो रुजो वि दृढा धृषता विरप्शिन् ॥


स्वर रहित पद पाठ

अया । ह । त्यम् । मायया । ववृधानम् । मनःऽजुवा । स्वऽतवः । पर्वतेन ॥ अच्युता । चित् । वीलिता । सुऽओजः । रुजः । वि । दृह्ला । धृषता । विरप्शिन् ॥३६.६॥