ऋषिः - भरद्वाजः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-३६

PreviousNext
स्वर सहित मन्त्र

तमु॑ नः॒ पूर्वे॑ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा॑सो अ॒भि वा॒जय॑न्तः। न॑क्षद्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो॑घवाचं म॒तिभिः॒ शवि॑ष्ठम् ॥

स्वर सहित पद पाठ

तम् । ऊं॒ इति॑ । न॒ः । पूर्वे॑ । पि॒तर॑ः । नव॑ऽग्वाः । स॒प्त । विप्रा॑सः । अ॒नि । वा॒जय॑न्तः ॥ न॒क्ष॒त्ऽदा॒भम् । ततु॑रिम् । प॒र्व॒ते॒ऽस्थाम् । अद्रो॑घऽवाचम् । म॒तिऽभि॑ः । शवि॑ष्ठम् ॥३६.२॥


स्वर रहित मन्त्र

तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः। नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥


स्वर रहित पद पाठ

तम् । ऊं इति । नः । पूर्वे । पितरः । नवऽग्वाः । सप्त । विप्रासः । अनि । वाजयन्तः ॥ नक्षत्ऽदाभम् । ततुरिम् । पर्वतेऽस्थाम् । अद्रोघऽवाचम् । मतिऽभिः । शविष्ठम् ॥३६.२॥