ऋषिः - भरद्वाजः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-३६

PreviousNext
स्वर सहित मन्त्र

स नो॑ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा॑राभि॒रा ग॑हि प्रयज्यो। न या अदे॑वो॒ वर॑ते॒ न दे॒व आभि॑र्याहि॒ तूय॒मा म॑द्र्यद्रिक् ॥

स्वर सहित पद पाठ

सः । नः । नि॒युत्ऽभि॑ः । पु॒रु॒ऽहू॒त॒ः । वे॒ध॒ः । वि॒श्वऽवा॑राभिः । आ । ग॒हि॒ । प्र॒य॒ज्यो॒ इति॑ । प्रऽयज्यो ॥ न । याः । अदे॑वः । वर॑ते । न । दे॒वः । आ । आ॒भि॒ः । या॒हि॒ । तूय॑म् । आ । म॒द्र्य॒द्रिक् ॥३६.११॥


स्वर रहित मन्त्र

स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो। न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक् ॥


स्वर रहित पद पाठ

सः । नः । नियुत्ऽभिः । पुरुऽहूतः । वेधः । विश्वऽवाराभिः । आ । गहि । प्रयज्यो इति । प्रऽयज्यो ॥ न । याः । अदेवः । वरते । न । देवः । आ । आभिः । याहि । तूयम् । आ । मद्र्यद्रिक् ॥३६.११॥