ऋषिः - भरद्वाजः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-३६

PreviousNext
स्वर सहित मन्त्र

य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्यर्च आ॒भिः। यः पत्य॑ते वृष॒भो वृष्ण्या॑वान्त्स॒त्यः सत्वा॑ पुरुमा॒यः सह॑स्वान् ॥

स्वर सहित पद पाठ

यः । एक॑ः । इत् । हव्य॑ः । च॒र्ष॒णी॒नाम् । इन्द्र॑म् । तम् । गी॒ऽभिः । अ॒भि । अ॒र्चे॒ । आ॒भिः ॥ यः । पत्य॑ते । वृ॒ष॒भः । वृष्ण्य॑ऽवान् । स॒त्यः । सत्वा॑ । पु॒रु॒ऽमा॒यः । सह॑स्वान् ॥३६.१॥


स्वर रहित मन्त्र

य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः। यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥


स्वर रहित पद पाठ

यः । एकः । इत् । हव्यः । चर्षणीनाम् । इन्द्रम् । तम् । गीऽभिः । अभि । अर्चे । आभिः ॥ यः । पत्यते । वृषभः । वृष्ण्यऽवान् । सत्यः । सत्वा । पुरुऽमायः । सहस्वान् ॥३६.१॥