ऋषिः - गृत्समदः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-३४

PreviousNext
स्वर सहित मन्त्र

यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः। यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ॥

स्वर सहित पद पाठ

यस्य॑ । अश्वा॑सः । प्र॒ऽदिशि॑ । यस्य॑ । गाव॑ः । यस्य॑ । ग्रामा॑ः । यस्य॑ । विश्वे॑ । रथा॑सः ॥ यः । सूर्य॑म् । यः । उ॒षस॑म् । ज॒जान॑ । यः। अ॒पाम् । ने॒ता । सः । ज॒ना॒स॒ः । इन्द्र॑ः ॥३३.७॥


स्वर रहित मन्त्र

यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः। यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥


स्वर रहित पद पाठ

यस्य । अश्वासः । प्रऽदिशि । यस्य । गावः । यस्य । ग्रामाः । यस्य । विश्वे । रथासः ॥ यः । सूर्यम् । यः । उषसम् । जजान । यः। अपाम् । नेता । सः । जनासः । इन्द्रः ॥३३.७॥