ऋषिः - गृत्समदः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-३४

PreviousNext
स्वर सहित मन्त्र

यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः। यु॒क्तग्रा॑व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्रः॑ ॥

स्वर सहित पद पाठ

यः । र॒ध्रस्य॑ । चो॒दि॒ताः । यः । कृ॒शस्य॑ । यः । ब्र॒ह्मण॑ः । नाध॑मानस्य । की॒रेः ॥ यु॒क्तऽग्रा॑व्णः । यः । अ॒वि॒ता । सु॒शि॒प्रः । सु॒तऽसो॑मस्य । सः । ज॒ना॒स॒ः । इन्द्र॑ः ॥३३.६॥


स्वर रहित मन्त्र

यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः। युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥


स्वर रहित पद पाठ

यः । रध्रस्य । चोदिताः । यः । कृशस्य । यः । ब्रह्मणः । नाधमानस्य । कीरेः ॥ युक्तऽग्राव्णः । यः । अविता । सुशिप्रः । सुतऽसोमस्य । सः । जनासः । इन्द्रः ॥३३.६॥