ऋषिः - गृत्समदः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-३४

PreviousNext
स्वर सहित मन्त्र

यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम्। सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ॥

स्वर सहित पद पाठ

यम् । स्म॒ । पृ॒च्छन्ति॑ । कुह॑ । सः । इति॑ । घो॒रम् । उ॒त । ई॒म् । आ॒हु॒ः । न । ए॒षः । अ॒स्ति॒ । इति॑ । ए॒न॒म् ॥ सः । अ॒र्यः । पु॒ष्टीः । विज॑ःऽइव । आ । मि॒ना॒ति॒ । श्रत् । अ॒स्मै॒ । ध॒त्त॒ । सः । ज॒ना॒स॒ः । इन्द्र॑ः ॥३३.५॥


स्वर रहित मन्त्र

यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम्। सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥


स्वर रहित पद पाठ

यम् । स्म । पृच्छन्ति । कुह । सः । इति । घोरम् । उत । ईम् । आहुः । न । एषः । अस्ति । इति । एनम् ॥ सः । अर्यः । पुष्टीः । विजःऽइव । आ । मिनाति । श्रत् । अस्मै । धत्त । सः । जनासः । इन्द्रः ॥३३.५॥