ऋषिः - गृत्समदः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-३४

PreviousNext
स्वर सहित मन्त्र

यः सोम॑कामो॒ हर्य॑श्वः सू॒रिर्यस्मा॒द्रेज॑न्ते॒ भुव॑नानि॒ विश्वा॑। यो ज॒घान॒ शम्ब॑रं॒ यश्च॒ शुष्णं॒ य ए॑कवी॒रः स ज॑नास॒ इन्द्रः॑ ॥

स्वर सहित पद पाठ

यः । सोम॑ऽकाम॒ः । हरि॑ऽअश्वः । सू॒रिः । यस्मा॑त् । रेज॑न्ते । भुव॑नानि । विश्वा॑ ॥ यः । ज॒घान॑ । शम्ब॑रम् । यः । च॒ । शुष्ण॑म् । यः । ए॒क॒ऽवी॒रः । सः । ज॒ना॒स॒ः । इन्द्र॑ः ॥३४.१७॥


स्वर रहित मन्त्र

यः सोमकामो हर्यश्वः सूरिर्यस्माद्रेजन्ते भुवनानि विश्वा। यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ॥


स्वर रहित पद पाठ

यः । सोमऽकामः । हरिऽअश्वः । सूरिः । यस्मात् । रेजन्ते । भुवनानि । विश्वा ॥ यः । जघान । शम्बरम् । यः । च । शुष्णम् । यः । एकऽवीरः । सः । जनासः । इन्द्रः ॥३४.१७॥