ऋषिः - गृत्समदः

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - सूक्त-३४

PreviousNext
स्वर सहित मन्त्र

यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती। यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ॥

स्वर सहित पद पाठ

यः । सु॒न्वन्त॑म् । अव॑ति । यः । पच॑न्तम् । यः । शंस॑न्तम् । यः । श॒श॒मा॒नम् । ऊ॒ती ॥ यस्य॑ । ब्रह्म॑ । वर्ध॑नम् । यस्य॑ । सोम॑ः । यस्य॑ । इ॒दम् । राध॑ः । सः । ज॒ना॒स॒ः । इन्द्र॑ः॥३४.१५॥


स्वर रहित मन्त्र

यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती। यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥


स्वर रहित पद पाठ

यः । सुन्वन्तम् । अवति । यः । पचन्तम् । यः । शंसन्तम् । यः । शशमानम् । ऊती ॥ यस्य । ब्रह्म । वर्धनम् । यस्य । सोमः । यस्य । इदम् । राधः । सः । जनासः । इन्द्रः॥३४.१५॥