ऋषिः - बरुः सर्वहरिर्वा

देवता - हरिः

छन्दः - जगती

स्वरः - सूक्त-३१

PreviousNext
स्वर सहित मन्त्र

हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत। अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥

स्वर सहित पद पाठ

हरि॑ऽश्मशारुः । हरि॑ऽकेशः । आ॒य॒सः । तु॒र॒ःऽपेये॑ । यः । ह॒रि॒पाः । अव॑र्धत ॥ अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । वा॒जिनी॑ऽवसुः । अति॑ । विश्वा॑ । दुःऽइ॒ता । परिषत् । हरी॒ इति॑ ॥३१.३॥


स्वर रहित मन्त्र

हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत। अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥


स्वर रहित पद पाठ

हरिऽश्मशारुः । हरिऽकेशः । आयसः । तुरःऽपेये । यः । हरिपाः । अवर्धत ॥ अर्वत्ऽभिः । यः । हरिऽभिः । वाजिनीऽवसुः । अति । विश्वा । दुःऽइता । परिषत् । हरी इति ॥३१.३॥